Alaukik Shaktiyan

ज्योतिष ,तंत्र ,कुण्डलिनी ,महाविद्या ,पारलौकिक शक्तियां ,उर्जा विज्ञान

श्री पंचमुखहनुमत्कवचम

:::::::श्री पंचमुखहनुमत्कवचम :::::::

==========================

ॐ श्री पंचवदनायांजनेयाय नमः।

 ॐ अस्य श्री पंचमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषिः, गायत्रीछन्दः

,पंचमुखविराट्हनुमान् देवता, ह्रीं बीजं, श्रीं शक्ति, क्रौं कीलकं, क्रूं कवचं, क्रैं अस्राय फट् इति दिग्बन्धः ॥

श्री गरुड उवाच:

अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि ।

यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥1॥

पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् ।

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥2॥

पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।

दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥3॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।

अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥4॥

पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्॥

सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥5॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।

पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥6॥

ऊर्ध्वं हयाननं घोरं दानवांतकरं परम ।

येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम् ॥7॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।

ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ॥8॥

खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌ ।

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥9॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम् ।

एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥10॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌ ।

दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम् ॥11॥

सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम् ।

पश्चास्यमच्युतम नेकविचित्रवर्णं वक्त्रं

शशांकशिखरं कपिराजवयम ।

पीतांबरादिमुकुटैरूपशोभितांग

पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥12॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।

शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥13॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं, परिलिख्यति लिख्यति वामतले ।

यदि नश्यति नश्यति शत्रुकुलं ,यदि मुश्चति मुश्चति वामलता ॥14॥

जो भक्त श्री पंचमुखहनुमत्कवचं का पाठ करते है,उन पर श्री हनुमानजी की विशेष कृपा होती है l उस भक्त की सभी मनोकामनाए अवश्य पूर्ण होती है |……………………………………………….हर-हर महादेव 


Discover more from Alaukik Shaktiyan

Subscribe to get the latest posts sent to your email.

Leave a Reply

Latest Posts